{"s":"dev","lang":"hi","v":{"shloka-1":{"l":["अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।","हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम्॥"],"w":["अधरं","मधुरं","वदनं","नयनं","हसितं","हृदयं","गमनं","मधुराधिपतेः","अखिलं"]},"shloka-2":{"l":["वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्।","चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम्॥"],"w":["वचनं","मधुरं","चरितं","वसनं","वलितं","चलितं","भ्रमितं","मधुराधिपतेः","अखिलं"]},"shloka-3":{"l":["वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ।","नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम्॥"],"w":["वेणुः","मधुरः","रेणुः","पाणिः","पादौ","मधुरौ","नृत्यं","सख्यं","मधुराधिपतेः","अखिलं"]},"shloka-4":{"l":["गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।","रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम्॥"],"w":["गीतं","मधुरं","पीतं","भुक्तं","सुप्तं","रूपं","तिलकं","मधुराधिपतेः","अखिलं"]},"shloka-5":{"l":["करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।","वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम्॥"],"w":["करणं","मधुरं","तरणं","हरणं","रमणं","वमितं","शमितं","मधुराधिपतेः","अखिलं"]},"shloka-6":{"l":["गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा।","सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम्॥"],"w":["गुञ्जा","मधुरा","माला","यमुना","वीची","सलिलं","कमलं","मधुराधिपतेः","अखिलं"]},"shloka-7":{"l":["गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम्।","दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम्॥"],"w":["गोपी","मधुरा","लीला","युक्तं","मुक्तं","दृष्टं","शिष्टं","मधुराधिपतेः","अखिलं"]},"shloka-8":{"l":["गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा।","दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम्॥"],"w":["गोपा","मधुरा","गावः","यष्टिः","सृष्टिः","दलितं","फलितं","मधुराधिपतेः","अखिलं"]}}}