{"s":"dev","lang":"hi","v":{"shloka-1":{"l":["अङ्गं हरेः पुलकभूषणमाश्रयन्ती","भृङ्गाङ्गनेव मुकुलाभरणं तमालम्।","अङ्गीकृताखिलविभूतिरपाङ्गलीला","माङ्गल्यदास्तु मम मङ्गलदेवतायाः॥"],"w":["अङ्गं हरेः","पुलकभूषणम्","आश्रयन्ती","भृङ्गाङ्गना इव","मुकुलाभरणं तमालम्","अङ्गीकृताखिलविभूतिः","अपाङ्गलीला","माङ्गल्यदा अस्तु मम","मङ्गलदेवतायाः"]},"shloka-2":{"l":["मुग्धा मुहुर्विदधती वदने मुरारेः","प्रेमत्रपाप्रणिहितानि गतागतानि।","माला दृशोर्मधुकरीव महोत्पले या","सा मे श्रियं दिशतु सागरसम्भवायाः॥"],"w":["मुग्धा","मुहुः विदधती","वदने मुरारेः","प्रेमत्रपाप्रणिहितानि गतागतानि","माला दृशोः","मधुकरी इव महोत्पले","सा मे श्रियं दिशतु","सागरसम्भवायाः"]},"shloka-3":{"l":["विश्वामरेन्द्रपदविभ्रमदानदक्षम्","आनन्दहेतुरधिकं मुरविद्विषोऽपि।","ईषन्निषीदतु मयि क्षणमीक्षणार्धम्","इन्दीवरोदरसहोदरमिन्दिरायाः॥"],"w":["विश्वामरेन्द्रपदविभ्रमदानदक्षम्","आनन्दहेतुः अधिकम्","मुरविद्विषः अपि","ईषत् निषीदतु मयि क्षणम्","ईक्षणार्धम्","इन्दीवरोदरसहोदरम्","इन्दिरायाः"]},"shloka-4":{"l":["आमीलिताक्षमधिगम्य मुदा मुकुन्दम्","आनन्दकन्दमनिमेषमनङ्गतन्त्रम्।","आकेकरस्थितकनीनिकपक्ष्मनेत्रं","भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः॥"],"w":["आमीलिताक्षम्","अधिगम्य मुदा मुकुन्दम्","आनन्दकन्दम्","अनिमेषम्","अनङ्गतन्त्रम्","आकेकरस्थितकनीनिकपक्ष्मनेत्रम्","भूत्यै भवेत् मम","भुजङ्गशयाङ्गनायाः"]},"shloka-5":{"l":["बाह्वन्तरे मधुजितः श्रितकौस्तुभे या","हारावलीव हरिनीलमयी विभाति।","कामप्रदा भगवतोऽपि कटाक्षमाला","कल्याणमावहतु मे कमलालयायाः॥"],"w":["बाह्वन्तरे मधुजितः","श्रितकौस्तुभे","हारावली इव हरिनीलमयी","विभाति","कामप्रदा भगवतः अपि","कटाक्षमाला","कल्याणम् आवहतु मे","कमलालयायाः"]},"shloka-6":{"l":["कालाम्बुदालिललितोरसि कैटभारेः","धाराधरे स्फुरति या तडिदङ्गनेव।","मातुस्समस्तजगतां महनीयमूर्तिः","भद्राणि मे दिशतु भार्गवनन्दनायाः॥"],"w":["कालाम्बुदालिललितोरसि","कैटभारेः","धाराधरे स्फुरति","तडिदङ्गना इव","मातुः समस्तजगताम्","महनीयमूर्तिः","भद्राणि मे दिशतु","भार्गवनन्दनायाः"]},"shloka-7":{"l":["प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्","माङ्गल्यभाजि मधुमाथिनि मन्मथेन।","मय्यापतेत्तदिह मन्थरमीक्षणार्धं","मन्दालसं च मकरालयकन्यकायाः॥"],"w":["प्राप्तं पदं प्रथमतः","खलु यत्प्रभावात्","माङ्गल्यभाजि मधुमाथिनि","मन्मथेन","मयि आपतेत् तत् इह","मन्थरम् ईक्षणार्धम्","मन्दालसं च","मकरालयकन्यकायाः"]},"shloka-8":{"l":["दद्याद्दयानुपवनो द्रविणाम्बुधाराम्","अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे।","दुष्कर्मघर्ममपनीय चिराय दूरं","नारायणप्रणयिनीनयनाम्बुवाहः॥"],"w":["दद्यात्","दयानुपवनः","द्रविणाम्बुधाराम्","अस्मिन् अकिञ्चनविहङ्गशिशौ","विषण्णे","दुष्कर्मघर्मम् अपनीय","चिराय दूरम्","नारायणप्रणयिनीनयनाम्बुवाहः"]},"shloka-9":{"l":["इष्टाविशिष्टमतयोऽपि यया दयार्द्र-","दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते।","दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां","पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः॥"],"w":["इष्टाविशिष्टमतयः अपि","यया दयार्द्रदृष्ट्या","त्रिविष्टपपदं सुलभं लभन्ते","दृष्टिः","प्रहृष्टकमलोदरदीप्तिः","इष्टां पुष्टिं कृषीष्ट मम","पुष्करविष्टरायाः"]},"shloka-10":{"l":["गीर्देवतेति गरुडध्वजसुन्दरीति","शाकम्भरीति शशिशेखरवल्लभेति।","सृष्टिस्थितिप्रलयकेलिषु संस्थितायै","तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै॥"],"w":["गीर्देवता इति","गरुडध्वजसुन्दरी इति","शाकम्भरी इति","शशिशेखरवल्लभा इति","सृष्टिस्थितिप्रलयकेलिषु संस्थितायै","तस्यै नमः","त्रिभुवनैकगुरोः तरुण्यै"]},"shloka-11":{"l":["श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै","रत्यै नमोऽस्तु रमणीयगुणार्णवायै।","शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै","पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै॥"],"w":["श्रुत्यै नमोऽस्तु","शुभकर्मफलप्रसूत्यै","रत्यै","रमणीयगुणार्णवायै","शक्त्यै","शतपत्रनिकेतनायै","पुष्ट्यै","पुरुषोत्तमवल्लभायै"]},"shloka-12":{"l":["नमोऽस्तु नालीकनिभाननायै","नमोऽस्तु दुग्धोदधिजन्मभूम्यै।","नमोऽस्तु सोमामृतसोदरायै","नमोऽस्तु नारायणवल्लभायै॥"],"w":["नमोऽस्तु","नालीकनिभाननायै","दुग्धोदधिजन्मभूम्यै","सोमामृतसोदरायै","नारायणवल्लभायै"]},"shloka-13":{"l":["सम्पत्कराणि सकलेन्द्रियनन्दनानि","साम्राज्यदानविभवानि सरोरुहाक्षि।","त्वद्वन्दनानि दुरिताहरणोद्यतानि","मामेव मातरनिशं कलयन्तु मान्ये॥"],"w":["सम्पत्कराणि","सकलेन्द्रियनन्दनानि","साम्राज्यदानविभवानि","सरोरुहाक्षि","त्वद्वन्दनानि","दुरिताहरणोद्यतानि","माम् एव कलयन्तु अनिशम्","मातः मान्ये"]},"shloka-14":{"l":["यत्कटाक्षसमुपासनाविधिः","सेवकस्य सकलार्थसम्पदः।","सन्तनोति वचनाङ्गमानसैः","त्वां मुरारिहृदयेश्वरीं भजे॥"],"w":["यत्कटाक्षसमुपासनाविधिः","सेवकस्य","सकलार्थसम्पदः सन्तनोति","वचनाङ्गमानसैः","त्वाम्","मुरारिहृदयेश्वरीम्","भजे"]},"shloka-15":{"l":["सरसिजनिलये सरोजहस्ते","धवलतमांशुकगन्धमाल्यशोभे।","भगवति हरिवल्लभे मनोज्ञे","त्रिभुवनभूतिकरि प्रसीद मह्यम्॥"],"w":["सरसिजनिलये","सरोजहस्ते","धवलतमांशुकगन्धमाल्यशोभे","भगवति","हरिवल्लभे","मनोज्ञे","त्रिभुवनभूतिकरि","प्रसीद मह्यम्"]},"shloka-16":{"l":["दिग्घस्तिभिः कनककुम्भमुखावसृष्ट-","स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम्।","प्रातर्नमामि जगतां जननीमशेष-","लोकाधिनाथगृहिणीममृताब्धिपुत्रीम्॥"],"w":["दिग्घस्तिभिः","कनककुम्भमुखावसृष्ट","स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम्","प्रातः नमामि","जगतां जननीम्","अशेषलोकाधिनाथगृहिणीम्","अमृताब्धिपुत्रीम्"]},"shloka-17":{"l":["कमले कमलाक्षवल्लभे त्वं","करुणापूरतरङ्गितैरपाङ्गैः।","अवलोकय मामकिञ्चनानां","प्रथमं पात्रमकृत्रिमं दयायाः॥"],"w":["कमले","कमलाक्षवल्लभे","त्वम्","करुणापूरतरङ्गितैः अपाङ्गैः","अवलोकय माम्","अकिञ्चनानां प्रथमम्","पात्रम् अकृत्रिमं दयायाः"]},"shloka-18":{"l":["स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं","त्रयीमयीं त्रिभुवनमातरं रमाम्।","गुणाधिका गुरुतरभाग्यभागिनो","भवन्ति ते भुवि बुधभाविताशयाः॥"],"w":["स्तुवन्ति ये","स्तुतिभिः अमूभिः","अन्वहम्","त्रयीमयीम्","त्रिभुवनमातरं रमाम्","गुणाधिकाः","गुरुतरभाग्यभागिनः","भवन्ति ते भुवि","बुधभाविताशयाः"]},"phalashruti":{"l":["सुवर्णधारास्तोत्रं यच्छङ्कराचार्यनिर्मितम्।","त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत्॥"],"w":["सुवर्णधारास्तोत्रम्","यत् शङ्कराचार्यनिर्मितम्","त्रिसन्ध्यम्","यः पठेत् नित्यम्","सः कुबेरसमः भवेत्"]}}}