{"s":"dev","lang":"hi","v":{"shloka-1":{"l":["नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते।","शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते॥"],"w":["नमस्तेऽस्तु","महामाये","श्रीपीठे","सुरपूजिते","शङ्खचक्रगदाहस्ते","महालक्ष्मि","नमोऽस्तु ते"]},"shloka-2":{"l":["नमस्ते गरुडारूढे कोलासुरभयङ्करि।","सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते॥"],"w":["नमस्ते","गरुडारूढे","कोलासुरभयङ्करि","सर्वपापहरे","देवि","महालक्ष्मि","नमोऽस्तु ते"]},"shloka-3":{"l":["सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि।","सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते॥"],"w":["सर्वज्ञे","सर्ववरदे","सर्वदुष्टभयङ्करि","सर्वदुःखहरे","देवि","महालक्ष्मि","नमोऽस्तु ते"]},"shloka-4":{"l":["सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि।","मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते॥"],"w":["सिद्धिबुद्धिप्रदे","देवि","भुक्तिमुक्तिप्रदायिनि","मन्त्रमूर्ते","सदा","देवि","महालक्ष्मि","नमोऽस्तु ते"]},"shloka-5":{"l":["आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि।","योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते॥"],"w":["आद्यन्तरहिते","देवि","आद्यशक्तिमहेश्वरि","योगजे","योगसम्भूते","महालक्ष्मि","नमोऽस्तु ते"]},"shloka-6":{"l":["स्थूलसूक्ष्ममहारौद्रे महाशक्ते महोदरे।","महापापहरे देवि महालक्ष्मि नमोऽस्तु ते॥"],"w":["स्थूलसूक्ष्ममहारौद्रे","महाशक्ते","महोदरे","महापापहरे","देवि","महालक्ष्मि","नमोऽस्तु ते"]},"shloka-7":{"l":["पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि।","परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तु ते॥"],"w":["पद्मासनस्थिते","देवि","परब्रह्मस्वरूपिणि","परमेशि","जगन्मातः","महालक्ष्मि","नमोऽस्तु ते"]},"shloka-8":{"l":["श्वेताम्बरधरे देवि नानालङ्कारभूषिते।","जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते॥"],"w":["श्वेताम्बरधरे","देवि","नानालङ्कारभूषिते","जगत्स्थिते","जगन्मातः","महालक्ष्मि","नमोऽस्तु ते"]},"phalashruti-1":{"l":["महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः।","सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा॥"],"w":["महालक्ष्म्यष्टकं स्तोत्रं","यः","पठेत्","भक्तिमान्","नरः","सर्वसिद्धिम्","अवाप्नोति","राज्यं","प्राप्नोति","सर्वदा"]},"phalashruti-2":{"l":["एककालं पठेन्नित्यं महापापविनाशनम्।","द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः॥"],"w":["एककालं","पठेत्","नित्यं","महापापविनाशनम्","द्विकालं","धनधान्यसमन्वितः"]},"phalashruti-3":{"l":["त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम्।","महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा॥"],"w":["त्रिकालं","यः पठेन्नित्यं","महाशत्रुविनाशनम्","महालक्ष्मीः","भवेत्","नित्यं","प्रसन्ना","वरदा","शुभा"]}}}