{"s":"dev","lang":"hi","v":{"shloka-1":{"l":["नमः कृष्णाय नीलाय शितिकण्ठनिभाय च।","नमः कालाग्निरूपाय कृतान्ताय च वै नमः॥"],"w":["नमः","कृष्णाय","नीलाय","शितिकण्ठनिभाय","च","कालाग्निरूपाय","कृतान्ताय","वै"]},"shloka-2":{"l":["नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च।","नमो विशालनेत्राय शुष्कोदरभयाकृते॥"],"w":["नमो","निर्मांसदेहाय","दीर्घश्मश्रुजटाय","च","विशालनेत्राय","शुष्कोदरभयाकृते"]},"shloka-3":{"l":["नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः।","नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते॥"],"w":["नमः","पुष्कलगात्राय","स्थूलरोम्णे","अथ","दीर्घाय","शुष्काय","कालदंष्ट्र","नमोऽस्तु ते"]},"shloka-4":{"l":["नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः।","नमो घोराय रौद्राय भीषणाय कपालिने॥"],"w":["नमस्ते","कोटराक्षाय","दुर्निरीक्ष्याय","घोराय","रौद्राय","भीषणाय","कपालिने"]},"shloka-5":{"l":["नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते।","सूर्यपुत्र नमस्तेऽस्तु भास्करेऽभयदाय च॥"],"w":["नमस्ते","सर्वभक्षाय","वलीमुख","नमोऽस्तु ते","सूर्यपुत्र","नमस्तेऽस्तु","भास्करे","अभयदाय","च"]},"shloka-6":{"l":["अधोदृष्टे नमस्तेऽस्तु संवर्तक नमोऽस्तु ते।","नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोऽस्तु ते॥"],"w":["अधोदृष्टे","नमस्तेऽस्तु","संवर्तक","नमोऽस्तु ते","मन्दगते","तुभ्यं","निस्त्रिंशाय"]},"shloka-7":{"l":["तपसा दग्धदेहाय नित्यं योगरताय च।","नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः॥"],"w":["तपसा","दग्धदेहाय","नित्यं","योगरताय","क्षुधार्ताय","अतृप्ताय"]},"shloka-8":{"l":["ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मजसूनवे।","तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात्॥"],"w":["ज्ञानचक्षुः","नमस्तेऽस्तु","कश्यपात्मजसूनवे","तुष्टः","ददासि","राज्यं","रुष्टः","हरसि","तत्क्षणात्"]},"shloka-9":{"l":["देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः।","त्वया विलोकिताः सर्वे नाशं यान्ति समूलतः॥"],"w":["देवासुरमनुष्याः","च","सिद्धविद्याधरोरगाः","त्वया","विलोकिताः","सर्वे","नाशं यान्ति","समूलतः"]},"shloka-10":{"l":["प्रसादं कुरु मे देव वरार्होऽहमुपागतः।","एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः॥"],"w":["प्रसादं","कुरु","मे","देव","वरार्हः","अहम्","उपागतः","एवं","स्तुतः","तदा","सौरिः","ग्रहराजः","महाबलः"]}}}