{"s":"dev","lang":"hi","v":{"shloka-1":{"l":["कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।","उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥"],"w":["कौसल्या","सुप्रजा","राम","पूर्वा","सन्ध्या","प्रवर्तते","उत्तिष्ठ","नरशार्दूल","कर्तव्यं","दैवम्","आह्निकम्"]},"shloka-2":{"l":["उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।","उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥"],"w":["उत्तिष्ठोत्तिष्ठ","गोविन्द","गरुडध्वज","कमलाकान्त","त्रैलोक्यं","मङ्गलं","कुरु"]},"shloka-3":{"l":["मातस्समस्तजगतां मधुकैटभारेः","वक्षोविहारिणि मनोहरदिव्यमूर्ते ।","श्रीस्वामिनि श्रितजनप्रियदानशीले","श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥"],"w":["मातः","समस्तजगताम्","मधुकैटभारेः","वक्षोविहारिणि","मनोहरदिव्यमूर्ते","श्रीस्वामिनि","श्रितजनप्रियदानशीले","श्रीवेङ्कटेशदयिते","तव","सुप्रभातम्"]},"shloka-4":{"l":["तव सुप्रभातमरविन्दलोचने","भवतु प्रसन्नमुखचन्द्रमण्डले ।","विधिशङ्करेन्द्रवनिताभिरर्चिते","वृषशैलनाथदयिते दयानिधे ॥"],"w":["तव सुप्रभातम्","अरविन्दलोचने","भवतु","प्रसन्नमुखचन्द्रमण्डले","विधिशङ्करेन्द्रवनिताभिः","अर्चिते","वृषशैलनाथदयिते","दयानिधे"]},"shloka-5":{"l":["अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां","आकाशसिन्धुकमलानि मनोहराणि ।","आदाय पादयुगमर्चयितुं प्रपन्नाः","शेषाद्रिशेखरविभो तव सुप्रभातम् ॥"],"w":["अत्र्यादिसप्तऋषयः","समुपास्य सन्ध्यां","आकाशसिन्धुकमलानि","मनोहराणि","आदाय","पादयुगम्","अर्चयितुं","प्रपन्नाः","शेषाद्रिशेखरविभो"]},"shloka-6":{"l":["पञ्चाननाब्जभवषण्मुखवासवाद्याः","त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति ।","भाषापतिः पठति वासरशुद्धिमारात्","शेषाद्रिशेखरविभो तव सुप्रभातम् ॥"],"w":["पञ्चानन","अब्जभव","षण्मुख","वासवाद्याः","त्रैविक्रमादिचरितं","विबुधाः","स्तुवन्ति","भाषापतिः","पठति","वासरशुद्धिम्","आरात्"]},"shloka-7":{"l":["ईषत्प्रफुल्लसरसीरुहनारिकेल-","पूगद्रुमादिसुमनोहरपालिकानाम् ।","आवाति मन्दमनिलस्सह दिव्यगन्धैः","शेषाद्रिशेखरविभो तव सुप्रभातम् ॥"],"w":["ईषत्प्रफुल्ल","सरसीरुह","नारिकेल","पूगद्रुमादि","सुमनोहरपालिकानाम्","आवाति","मन्दम्","अनिलः","सह दिव्यगन्धैः"]},"shloka-8":{"l":["उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः","पात्रावशिष्टकदलीफलपायसानि ।","भुक्त्वा सलीलमथ केलिशुकाः पठन्ति","शेषाद्रिशेखरविभो तव सुप्रभातम् ॥"],"w":["उन्मील्य","नेत्रयुगम्","उत्तमपञ्जरस्थाः","पात्रावशिष्ट","कदलीफलपायसानि","भुक्त्वा","सलीलम्","अथ","केलिशुकाः","पठन्ति"]},"shloka-9":{"l":["तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या","गायत्यनन्तचरितं तव नारदोऽपि ।","भाषासमग्रमसकृत्करचाररम्यं","शेषाद्रिशेखरविभो तव सुप्रभातम् ॥"],"w":["तन्त्रीप्रकर्षमधुरस्वनया","विपञ्च्या","गायति","अनन्तचरितं","नारदः अपि","भाषासमग्रम्","असकृत्","करचाररम्यं"]},"shloka-10":{"l":["भृङ्गावली च मकरन्दरसानुविद्ध-","झङ्कारगीतनिनदैः सह सेवनाय ।","निर्यात्युपान्तसरसीकमलोदरेभ्यः","शेषाद्रिशेखरविभो तव सुप्रभातम् ॥"],"w":["भृङ्गावली","मकरन्दरसानुविद्ध","झङ्कारगीतनिनदैः सह","सेवनाय","निर्याति","उपान्तसरसीकमलोदरेभ्यः"]},"shloka-11":{"l":["योषागणेन वरदध्नि विमथ्यमाने","घोषालयेषु दधिमन्थनतीव्रघोषाः ।","रोषात्कलिं विदधते ककुभश्च कुम्भाः","शेषाद्रिशेखरविभो तव सुप्रभातम् ॥"],"w":["योषागणेन","वरदध्नि","विमथ्यमाने","घोषालयेषु","दधिमन्थनतीव्रघोषाः","रोषात्","कलिं विदधते","ककुभः","च कुम्भाः"]},"shloka-12":{"l":["पद्मेशमित्रशतपत्रगतालिवर्गाः","हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।","भेरीनिनादमिव बिभ्रति तीव्रनादं","शेषाद्रिशेखरविभो तव सुप्रभातम् ॥"],"w":["पद्मेशमित्र","शतपत्रगत","अलिवर्गाः","हर्तुं श्रियं","कुवलयस्य","निजाङ्गलक्ष्म्या","भेरीनिनादम् इव","बिभ्रति","तीव्रनादं"]},"shloka-13":{"l":["श्रीमन्नभीष्टवरदाखिललोकबन्धो","श्रीश्रीनिवास जगदेकदयैकसिन्धो ।","श्रीदेवतागृहभुजान्तरदिव्यमूर्ते","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["श्रीमन्","अभीष्टवरद","अखिललोकबन्धो","श्रीश्रीनिवास","जगदेकदयैकसिन्धो","श्रीदेवतागृहभुजान्तर","दिव्यमूर्ते","श्रीवेङ्कटाचलपते"]},"shloka-14":{"l":["श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गाः","श्रेयोऽर्थिनो हरविरिञ्चिसनन्दनाद्याः ।","द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["श्रीस्वामिपुष्करिणिका","आप्लवनिर्मलाङ्गाः","श्रेयोऽर्थिनः","हरविरिञ्चिसनन्दनाद्याः","द्वारे वसन्ति","वरवेत्रहतोत्तमाङ्गाः"]},"shloka-15":{"l":["श्रीशेषशैलगरुडाचलवेङ्कटाद्रि-","नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम् ।","आख्यां त्वदीयवसतेरनिशं वदन्ति","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["श्रीशेषशैल","गरुडाचल","वेङ्कटाद्रि","नारायणाद्रि","वृषभाद्रि","वृषाद्रिमुख्याम्","आख्यां","त्वदीयवसतेः","अनिशं वदन्ति"]},"shloka-16":{"l":["सेवापराः शिवसुरेशकृशानुधर्म-","रक्षोऽम्बुनाथपवमानधनाधिनाथाः ।","बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["सेवापराः","शिव","सुरेश","कृशानु","धर्म","रक्षः","अम्बुनाथ","पवमान","धनाधिनाथाः","बद्धाञ्जलि","प्रविलसन्निजशीर्षदेशाः"]},"shloka-17":{"l":["धाटीषु ते विहगराजमृगाधिराज-","नागाधिराजगजराजहयाधिराजाः ।","स्वस्वाधिकारमहिमाधिकमर्थयन्ते","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["धाटीषु ते","विहगराज","मृगाधिराज","नागाधिराज","गजराज","हयाधिराजाः","स्वस्वाधिकारमहिमाधिकम्","अर्थयन्ते"]},"shloka-18":{"l":["सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि-","स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः ।","त्वद्दासदासचरमावधिदासदासाः","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["सूर्य","इन्दु","भौम","बुध","वाक्पति","काव्य","सौरि","स्वर्भानु","केतु","दिविषत्परिषत्प्रधानाः","त्वद्दासदासचरमावधिदासदासाः"]},"shloka-19":{"l":["त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः","स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।","कल्पागमाकलनयाकुलतां लभन्ते","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["त्वत्पादधूलिभरित","स्फुरितोत्तमाङ्गाः","स्वर्गापवर्गनिरपेक्ष","निजान्तरङ्गाः","कल्पागम","आकलनया","आकुलतां लभन्ते"]},"shloka-20":{"l":["त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः","स्वर्गापवर्गपदवीं परमां श्रयन्तः ।","मर्त्या मनुष्यभुवने मतिमाश्रयन्ते","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["त्वद्गोपुराग्रशिखराणि","निरीक्षमाणाः","स्वर्गापवर्गपदवीं","परमां श्रयन्तः","मर्त्याः","मनुष्यभुवने","मतिम् आश्रयन्ते"]},"shloka-21":{"l":["श्रीभूमिनायक दयादिगुणामृताब्धे","देवाधिदेव जगदेकशरण्यमूर्ते ।","श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["श्रीभूमिनायक","दयादिगुणामृताब्धे","देवाधिदेव","जगदेकशरण्यमूर्ते","श्रीमन्","अनन्तगरुडादिभिः","अर्चिताङ्घ्रे"]},"shloka-22":{"l":["श्रीपद्मनाभ पुरुषोत्तम वासुदेव","वैकुण्ठ माधव जनार्दन चक्रपाणे ।","श्रीवत्सचिह्न शरणागतपारिजात","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["श्रीपद्मनाभ","पुरुषोत्तम","वासुदेव","वैकुण्ठ","माधव","जनार्दन","चक्रपाणे","श्रीवत्सचिह्न","शरणागतपारिजात"]},"shloka-23":{"l":["कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते","कान्ताकुचाम्बुरुहकुड्मललोलदृष्टे ।","कल्याणनिर्मलगुणाकरदिव्यकीर्ते","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["कन्दर्पदर्पहर","सुन्दरदिव्यमूर्ते","कान्ताकुचाम्बुरुहकुड्मल","लोलदृष्टे","कल्याणनिर्मलगुणाकर","दिव्यकीर्ते"]},"shloka-24":{"l":["मीनाकृते कमठकोलनृसिंहवर्णिन्","स्वामिन् परश्वथतपोधन रामचन्द्र ।","शेषांशराम यदुनन्दन कल्किरूप","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["मीनाकृते","कमठ","कोल","नृसिंह","वर्णिन्","स्वामिन्","परश्वथतपोधन","रामचन्द्र","शेषांशराम","यदुनन्दन","कल्किरूप"]},"shloka-25":{"l":["एलालवङ्गघनसारसुगन्धितीर्थं","दिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।","धृत्वाऽद्य वैदिकशिखामणयः प्रहृष्टाः","तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥"],"w":["एलालवङ्गघनसार","सुगन्धितीर्थं","दिव्यं","वियत्सरिति","हेमघटेषु पूर्णम्","धृत्वा","अद्य","वैदिकशिखामणयः","प्रहृष्टाः","तिष्ठन्ति","वेङ्कटपते"]},"shloka-26":{"l":["भास्वानुदेति विकचानि सरोरुहाणि","सम्पूरयन्ति निनदैः ककुभो विहङ्गाः ।","श्रीवैष्णवास्सततमर्थितमङ्गलास्ते","धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥"],"w":["भास्वान् उदेति","विकचानि सरोरुहाणि","सम्पूरयन्ति","निनदैः","ककुभः","विहङ्गाः","श्रीवैष्णवाः","सततम् अर्थितमङ्गलाः","धाम आश्रयन्ति","वेङ्कट"]},"shloka-27":{"l":["ब्रह्मादयस्सुरवरास्समहर्षयस्ते","सन्तस्सनन्दनमुखास्त्वथ योगिवर्याः ।","धामान्तिके तव हि मङ्गलवस्तुहस्ताः","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["ब्रह्मादयः सुरवराः","समहर्षयः","ते","सन्तः","सनन्दनमुखाः","तु अथ योगिवर्याः","धामान्तिके","मङ्गलवस्तुहस्ताः"]},"shloka-28":{"l":["लक्ष्मीनिवास निरवद्यगुणैकसिन्धो","संसारसागरसमुत्तरणैकसेतो ।","वेदान्तवेद्यनिजवैभव भक्तभोग्य","श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥"],"w":["लक्ष्मीनिवास","निरवद्यगुणैकसिन्धो","संसारसागरसमुत्तरणैकसेतो","वेदान्तवेद्यनिजवैभव","भक्तभोग्य"]},"shloka-29":{"l":["इत्थं वृषाचलपतेरिह सुप्रभातं","ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।","तेषां प्रभातसमये स्मृतिरङ्गभाजां","प्रज्ञां परार्थसुलभां परमां प्रसूते ॥"],"w":["इत्थं","वृषाचलपतेः","इह सुप्रभातं","ये मानवाः","प्रतिदिनं","पठितुं प्रवृत्ताः","तेषां","प्रभातसमये","स्मृतिः","अङ्गभाजां","प्रज्ञां","परार्थसुलभां","परमां प्रसूते"]}}}