{"s":"dev","lang":"hi","v":{"shloka-1":{"l":["अच्युतं केशवं रामनारायणं","कृष्णदामोदरं वासुदेवं हरिम् ।","श्रीधरं माधवं गोपिकावल्लभं","जानकीनायकं रामचन्द्रं भजे ॥"],"w":["अच्युतं","केशवं","रामनारायणं","कृष्णदामोदरं","वासुदेवं","हरिम्","श्रीधरं","माधवं","गोपिकावल्लभं","जानकीनायकं","रामचन्द्रं","भजे"]},"shloka-2":{"l":["अच्युतं केशवं सत्यभामाधवं","माधवं श्रीधरं राधिकाराधितम् ।","इन्दिरामन्दिरं चेतसा सुन्दरं","देवकीनन्दनं नन्दजं सन्दधे ॥"],"w":["सत्यभामाधवं","राधिकाराधितम्","इन्दिरामन्दिरं","चेतसा सुन्दरं","देवकीनन्दनं","नन्दजं","सन्दधे"]},"shloka-3":{"l":["विष्णवे जिष्णवे शङ्खिने चक्रिणे","रुक्मिणीरागिणे जानकीजानये ।","वल्लवीवल्लभायार्चितायात्मने","कंसविध्वंसिने वंशिने ते नमः ॥"],"w":["विष्णवे","जिष्णवे","शङ्खिने चक्रिणे","रुक्मिणीरागिणे","जानकीजानये","वल्लवीवल्लभाय","अर्चिताय","आत्मने","कंसविध्वंसिने","वंशिने","ते नमः"]},"shloka-4":{"l":["कृष्ण गोविन्द हे राम नारायण","श्रीपते वासुदेवाजित श्रीनिधे ।","अच्युतानन्त हे माधवाधोक्षज","द्वारकानायक द्रौपदीरक्षक ॥"],"w":["कृष्ण गोविन्द","हे राम नारायण","श्रीपते","वासुदेव","अजित","श्रीनिधे","अच्युत अनन्त","हे माधव अधोक्षज","द्वारकानायक","द्रौपदीरक्षक"]},"shloka-5":{"l":["राक्षसक्षोभितः सीतया शोभितो","दण्डकारण्यभूपुण्यताकारणम् ।","लक्ष्मणेनान्वितो वानरैः सेवितो-","ऽगस्त्यसम्पूजितो राघवः पातु माम् ॥"],"w":["राक्षसक्षोभितः","सीतया शोभितः","दण्डकारण्यभूपुण्यताकारणम्","लक्ष्मणेनान्वितः","वानरैः सेवितः","अगस्त्यसम्पूजितः","राघवः पातु माम्"]},"shloka-6":{"l":["धेनुकारिष्टहाऽनिष्टकृद्द्वेषिणां","केशिहा कंसहृद्वंशिकावादकः ।","पूतनाकोपकः सूरजाखेलनो","बालगोपालकः पातु मां सर्वदा ॥"],"w":["धेनुकारिष्टहा","अनिष्टकृद्द्वेषिणां","केशिहा","कंसहृत्","वंशिकावादकः","पूतनाकोपकः","सूरजाखेलनः","बालगोपालकः","पातु मां सर्वदा"]},"shloka-7":{"l":["विद्युदुद्योतवत्प्रस्फुरद्वाससं","प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।","वन्यया मालया शोभितोरःस्थलं","लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥"],"w":["विद्युदुद्योतवत्","प्रस्फुरद्वाससं","प्रावृडम्भोदवत्","प्रोल्लसद्विग्रहम्","वन्यया मालया","शोभितोरःस्थलं","लोहिताङ्घ्रिद्वयं","वारिजाक्षं","भजे"]},"shloka-8":{"l":["कुञ्चितैः कुन्तलैर्भ्राजमानाननं","रत्नमौलिं लसत्कुण्डलं गण्डयोः ।","हारकेयूरकं कङ्कणप्रोज्ज्वलं","किङ्किणीमञ्जुलं श्यामलं तं भजे ॥"],"w":["कुञ्चितैः कुन्तलैः","भ्राजमानाननं","रत्नमौलिं","लसत्कुण्डलं गण्डयोः","हारकेयूरकं","कङ्कणप्रोज्ज्वलं","किङ्किणीमञ्जुलं","श्यामलं तं भजे"]},"shloka-9":{"l":["अच्युतस्याष्टकं यः पठेदिष्टदं","प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।","वृत्ततः सुन्दरं वेद्यविश्वम्भरं","तस्य वश्यो हरिर्जायते सत्वरम् ॥"],"w":["अच्युतस्याष्टकं","यः पठेत्","इष्टदं","प्रेमतः","प्रत्यहं","पूरुषः","सस्पृहम्","वृत्ततः सुन्दरं","वेद्यविश्वम्भरं","तस्य","वश्यः हरिः जायते","सत्वरम्"]}}}